वदनं वसनं वचनं वहनं नमनं शमनं गमनं दमनम्। तरणं वरणं हरणं करणं गणनायक ते निखिलं शरणम् ।। 1 ।।
नृत्यं कृत्यं गोत्रं स्तोत्रं वाद्यं खाद्यं पाद्यं पानम्। ध्यानं ज्ञानं गानं दानं गणनायक ते निखिलं शरणम् ।। 2।।
हस्तौ पादौ कर्णौ नाभिस्स्कन्धौ जिह्वा घ्राणं हृदयम्। उदरं नेत्रे शुण्डा दन्तौ गणनायक ते निखिलं शरणम् ।। 3 ।। |
0 Komentar